॥ श्रीः ॥
1.46. अध्यायः 046
Mahabharata - Adi Parva - Chapter Topics
जरत्कारोः स्वपितृसंवादानन्तरं दारान्वेषणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-46-0x(219)(1977)
एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः।
उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा॥ 1-46-1(1978)
जरत्कारुरुवाच। 1-46-2x(220)
मम पूर्वे भवन्तो वै पितरः सपितामहाः।
तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया॥ 1-46-2(1979)
अहमेव जरत्कारुः किल्बिषी भवतां सुतः।
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः॥ 1-46-3(1980)
पितर ऊचुः। 1-46-4x(221)
पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया।
किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः॥ 1-46-4(1981)
जरत्कारुरुवाच। 1-46-5x(222)
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते।
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै॥ 1-46-5(1982)
न दारान्वै करिष्येऽहमिति मे भावितं मनः।
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः॥ 1-46-6(1983)
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः।
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्॥ 1-46-7(1984)
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन।
भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता॥ 1-46-8(1985)
प्रतिग्रहीता तामस्मि न भरेयं च यामहम्।
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि।
अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः॥ 1-46-9(1986)
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम॥ 1-46-10(1987)
सौतिरुवाच। 1-46-11x(223)
एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः।
न च स्म लभते भार्यां वृद्धोऽयमिति शानक॥ 1-46-11(1988)
यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा।
तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः॥ 1-46-12(1989)
सत्वरण्यगतः प्राज्ञः पितॄणा हितकाम्यया।
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः॥ 1-46-13(1990)
यानि भूतानि सन्तीह स्थावराणि चराणि च।
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः॥ 1-46-14(1991)
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्।
निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया॥ 1-46-15(1992)
निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः।
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः॥ 1-46-16(1993)
यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः।
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्॥ 1-46-17(1994)
मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्।
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत॥ 1-46-18(1995)
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः।
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्॥ 1-46-19(1996)
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम्।
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः॥ 1-46-20(1997)
तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने।
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत॥ 1-46-21(1998)
असनामेति वै मत्वा भरणे चाविचारिते।
मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे॥ 1-46-22(1999)
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन।
वासुकिं भरणं चास्या न कुर्यामित्युवाच ह॥ ॥ 1-46-23(2000)